एकात्मता स्तोत्र – Ekatmata stotra lyrics

एकात्मता स्तोत्र - Ekatmata stotra lyrics

एकात्मता स्तोत्र – Ekatmata stotra lyrics

|| एकात्मता स्तोत्र श्लोक ||

सच्चिदानन्दरूपाय नमोऽस्तु परमात्मने
ज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये || १

प्रकृतिः पञ्चभूतानि ग्रहा लोका स्वरास्तथा
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम् || २

रत्नाकराधौतपदां हिमालयकिरीटिनीम्
ब्रह्मराजर्षिरत्नाढ्यां वंदे भारतमातरम् || ३

महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा || ४

गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकी
कावेरी यमुना रेवा कृष्णा गोदा महानदी || ५

अयोध्या मथुरा माया काशी काञ्चि अवंतिका
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया || ६

प्रयागः पाटलीपुत्रं विजयानगरं महत
इन्द्रप्रस्थं सोमनाथः तथाऽमृतसरः प्रियम् || ७

चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता सददर्शनानि च || ८

जैनागमास्त्रिपिटका गुरुग्रन्थः सतां गिरः
ऐष ज्ञाननिधिः श्रेष्ठः श्रदधेयो हृदि सर्वदा || ९

अरुन्धत्यनसूया च सावित्री जानकी सती
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा || १०

कक्ष्मीरहल्या चेन्नम्मा रूद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्या मातृदेवताः || ११

श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः
मार्कण्डेयो हरिश्चन्द्रः प्रह्लादो नारदो ध्रुवः || १२

हनुमांजनको व्यासो वसिष्ठश्च शुको बलिः
दधीचिविश्वकर्माणौ पृथुवाल्मीकिभार्गवाः || १३

भगीरथश्चैकलव्यो मनुर्धंवंतरिस्था
शिवश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः || १४

बुद्धा जिनेंद्रा गोरक्षः पाणिनिश्च पतञ्जलिः
शङ्करो मध्वनिम्बार्कौ श्रीरामानुजवल्लभो || १५

झूलेलालोऽथ चैतन्यः तिरुवल्लुवरस्तथा
नायन्मारालवाराश्च कम्बश्च बसवेश्वरः || १६

रेवलो रविदासश्च कबीरो गुरुनानकः
नरसिस्तुलसीदासो दशमेशो दृढव्रतः || १७

श्रीमत् शङ्करदेवश्च बंधू सायणमाधवौ
ज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः || १८

बिरसा सहजानन्दो रामानंदस्तथा महान
वितरन्तु सदैवैते दैवीं सद्गुणसम्पदम् || १९

भरतर्षिः कालिदासः श्रीभोजो जकणस्तथा
सूरदासस्त्यागराजो रसखानाश्च सत्कविः || २०

रविवर्मा भारतखण्डे भाग्यचन्द्रः स भूपतिः
कलावन्तश्च विख्याताः स्मरणीया निरन्तरम् || २१

अगस्त्यः कंबुकौण्डिन्यो राजेन्द्रश्चोलवंशजः
अशोकः पुष्यमित्रश्य खारवेलः सुनीतिमान् || २२

चाणक्यचंद्रगुप्तौ च विक्रमः शालिवाहनः
समुद्रगुप्तः श्रीहर्षः शैलेन्द्रो बप्पारावलः || २३

लाचिद् भास्करवर्मा च यशोधर्मा च हूणजित्
श्रीकृष्णदेवरायश्च ललितादित्य उद् बलः || २४

मुसुनूरिनायकौ तौ प्रतापः शिवभूपतिः
रणजितसिंह इतेत्ये वीरा विख्यातविक्रमाः || २५

विज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा
चरको भास्कराचार्यो वराहमिहिरंः सुधीः || २६

नागार्जुनो भरद्वाज आर्यभटटो बसुर्बुध
ध्ययो देंकटरामश्च विज्ञा रामानुजादयः || २७

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः
रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः || २८

दादाभाई गोपबंधुः तिलको गांधिराद्रिताः
रमणो मालवीयश्च श्रीसुब्रह्माण्यभारती || २९

सुभाषः प्रणवानन्दः क्रांतिवीरो विनायकः
ठक्करो भीमरावाश्च फुले नारायणो गुरुः || ३०

शंघशक्तिप्रणेतारौ केशवो माधवस्तथा
स्मरणीयाः सदैवैते नवचैतन्यदायकाः || ३१

अनुक्ता ये भक्ताः प्रभुचरणसंसक्तहृदयाः
अनिर्दिष्टा वीरा अधिसमरमुदध्वस्तरिपवः ||

समाजोद्धर्तारः सुहितकरविज्ञाननिपुणाः
नमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम् || ३२

इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत्
स राष्ट्रधर्मनिष्ठावान् अखण्डं भारतं स्मरेत् || ३३

|| जयतु जयतु हिन्दुराष्ट्रम् || 

जय श्री राम भारत माता की जय जय श्री राम भारत माता की जय

श्री शिव पंचाक्षर स्तोत्र

हिन्दू धर्म के संस्कृत मंत्र

नारायण स्तोत्रम्

महिषासुर मर्दिनी स्तोत्र

महालक्ष्मी अष्टकम पाठ

श्री गणेश मंत्र प्रभाव स्तुतिः

श्री राम रक्षा स्तोत्र

Leave a Reply

Your email address will not be published. Required fields are marked *